मूलम्
भेदो नाम पदार्थानामवच्छेदः परस्परम् । संसर्गोऽपि पदार्थानामन्योन्येनानुरञ्जनम् ॥
टीका
तन्त्र.[429]
मूलम्
स्वप्राधान्यात्पदार्थानां धर्मावेतावुभावपि । धर्मिभेदेन भिद्येते न ह्येकत्वमुपाश्रितम् ॥
मूलम्
अर्थैकत्वादेकवाक्यमित्यत्रेदं विचिन्तितम् । भाष्यवार्तिकयोः पूर्वमीमांसायां विलोक्यताम् ॥