मूलम्
ननुचाशक्तिजा दोषाः प्रमादजनिताश्च ये। परिहर्तुमशक्यत्वान्न निषेध्या इति त्वसत्॥
टीका
तन्त्र.[233]
मूलम्
प्रमादमेव मा कार्षीः सामर्थ्याय यतस्व च। एवमर्थो निषेधोऽयं नाद्रियेतान्यथा ह्यसौ॥
मूलम्
अन्ये सुखामुखारूढाः म क्लेशेन विवक्षवः। शक्ताश्चावाप्रमात्ताश्च वदेयुरनिवारिताः॥
मूलम्
अशक्तैर्नाशिकाश्चान्ये दाक्षिण्याद्यनुवर्तनात्। जानन्तोऽपि प्रयुञ्जीरन् यदि शास्त्रं न वारयेत्॥
मूलम्
तत्कथं नाम यत्किञ्चित् स्यादभ्रंशकारणम्। दूरात्परिहरेयुस्तदिति यत्नो नियम्यते॥
मूलम्
रीतिरेषा निषेधेषु चान्येषु परिगृह्यताम् । प्रमादश्चाप्यशक्तिश्च न पुरस्क्रियतां बुधैः ॥
मूलम्
आर्याश्च म्लेच्छभाषाभ्यः कल्पयन्तः स्वकं पदम् । पदान्तराक्षरोपेतं कल्पयन्ति कदाचन ॥
टीका
तन्त्र.[157]
मूलम्
तस्माद्ये याज्ञिकैर्येषां वैद्यैर्वार्था निरूपिताः । तेषां त एव शब्दानामर्थाः मुख्या न चेतरे ॥