643 अपशब्दविचारः

मूलम्

अम्बाम्बेति यदा बालश्शिक्षमाणः प्रभाषते। अव्यक्तं तद्विदां तेन व्यक्ते भवति निर्णयः॥

टीका

वा. प.[1-134]

मूलम्

एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुच्यते। तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते॥

मूलम्

नापभाषतवै न म्लेच्छतवै इति यद्यपि। निषेधो वर्ततेऽथापि प्रमादो धीमतामपि॥

मूलम्

कल्पशूत्रस्मृतिग्रन्थमीमांसागृह्यकारिणः। शिष्टाः दृष्टाः प्रयुञ्जानाः अपशब्दाननेकशः॥

टीका

तन्त्र.[199]

मूलम्

शब्दशास्त्रप्रवक्तारशास्त्रयोऽपि मुनयः पुनः। शास्त्र एव स्खलन्तीति विवृतं तन्त्रवार्तिके॥

मूलम्

अन्तो नास्त्यपशब्दानामितिहासपुराणयोः। मरणान्तो व्यधिरसौ यद्व्याकरणमुच्यते॥

मूलम्

इति चौशनसाः प्राहुरिति प्राह बृहस्पतिः। दुष्टग्रहगृहीतो वा भीतो वा राजदण्डतः॥

मूलम्

पितृभ्यामभिशप्तो वा कुर्याद्व्याकरणे श्रमम् । वृत्तिः सूत्रं तिलाः माषाः कपत्री कोद्रवौदनः ॥

मूलम्

अजडाय प्रदातव्यं जडीकरणमुत्तमम्। इत्थं शङ्कासंग्रहोऽथ समाधेरपि संग्रहः॥

मूलम्

रूपान्तरेण देवास्ते विचरन्ति महीतले। ये व्याकरणसंस्कारपवित्रितमुखा नराः॥

मूलम्

यश्च व्याकुरुते वाचं यश्च मीमांसतोऽध्वरम्। तावुभौ पुरुषौ लोके पङ्क्तिपावनपावनौ॥

मूलम्

वरं हि जातास्तिमयः गभीरे दि जलाशये। न मानवाः व्याकरणशुद्धिहीनमुखा भुवि॥

मूलम्

ऐन्द्रं चान्द्रं च माहेशं दौर्गं कौमारमेव च। कालापं चैवाऽऽपिशलं कातन्त्रादिकमुच्यते॥

मूलम्

अष्टादश पुराणानि चाष्टौ व्याकरणानि च। ज्ञात्वा सत्यवतीसूनुश्चक्रे भारतसंहिताम्॥