642 नैयायिकविभागः

मूलम्

नैयायिकविभागोऽपि किंचिदत्र निरूप्यते। प्रकृतिः प्रत्ययश्चेति निपातश्चेति स त्रिधा॥

मूलम्

निरुक्ता प्रकृतिर्द्वेधा नामधातुविभेदतः। यत्प्रातिपदिकं प्रोक्तं तन्नाम्नो नातिरिच्यते॥

मूलम्

रूढं च लक्षकं चैव योगरूढं च यौगिकम्। तच्चतुर्धा परैरूढयोगिकं मन्यतेऽधिकम्॥