641 उपसर्गनिपातविचारः

मूलम्

प्रादयो ह्युपसर्गास्स्युः निपाताश्चादयो मताः। तिङन्तास्त्वाख्यातसंज्ञाः सुबन्धा मानसंज्ञिताः॥

टीका

श्लोक.[924]

मूलम्

उपुसर्गा निपाताश्च वाचका द्योतका इति। मतद्वयं,वाचकत्वं शक्तिस्स्यात्सामुदायिकी॥

टीका

शब्दशक्तिप्रका.[ ]

मूलम्

विशेषणं द्योतकत्वं तच्च शक्त्यपवादनम्।सर्वं सर्वार्थशक्तं चेदपवादो ह्यपेक्ष्यते॥

मूलम्

तदा पान्तरं तत्स्यात् अन्वाख्यानमनर्थकम्। उक्ते विशेषणं,किंचिदुच्यमानविशेषणम्॥

मूलम्

तेन शक्तयपवादोऽयं भवेदर्थापवादवत्। चादयो वाचकाः प्राद्या द्योतका इति तार्किकाः॥

मूलम्

सर्वेऽपि द्योतका एवेत्याहुश्शाब्दिककोविदाः। मीमांसकास्तु मध्यस्थाः चिन्तनश्रमभीरवः॥