639 आलङ्कारिकविभागः

मूलम्

चतुर्धा वाचकश्शब्दः जातिवाचक आदिमः। द्वितीयो गुणवाची स्यात् तृतीयः कर्मवाचकः॥

टीका

न्या. सि.[6 परि]

मूलम्

द्रव्यवाची तुरीयः स्यात् तेषां विवरणं त्विदम्। अनुप्राणनहेतुर्यः धर्मः तस्य हि वाचकः॥

मूलम्

जातिवाचक इत्युक्तः तत्रानुप्राणनं पुनः। विशेषतोयाऽऽकाङ्क्षा स्यात् शान्तिस्तस्या इतीर्यते॥

मूलम्

जातिः प्राणप्रदात्रीति चात एवाभिधीयते। अर्थस्यानुप्राणितस्य सिद्धधर्मो विशेषणम्॥

मूलम्

यत्स्यात्तद्वाचकश्शब्दः गुणवाचक उच्यते। तादृशो यस्साध्यधर्मः तद्वाची कर्मवाचकः॥

मूलम्

एतत्र्त्रितयसंयुक्तं वस्तु द्रव्यमितीर्यते। तद्वाचको द्रव्यवाचीत्येव प्राज्ञैरनूदितम्॥

मूलम्

जातिसामान्यमित्याद्या जातिमात्रस्य वाचकाः। व्यक्तिस्सवरूपमित्याद्या व्यक्तिमात्रस्य वाचकाः॥

मूलम्

गोघटाश्वादयो जातिविशिष्टव्यक्तिवाचकाः। गणादिवाचकाश्शब्दाः द्रव्यपर्यन्तबोधकाः॥

मूलम्

असौत्रोऽपि च मत्त्वर्थीयादिस्तद्गणवाचिनः। निष्कर्षप्रतिरुद्धायाः शक्तेरुत्तम्भको मतः॥

टीका

स. सि.[4-81]

मूलम्

वैभवात्क्वचिदायातः भूरिकेवदर्शनात्। नचेत्तेषामसाधुत्वप्रसङ्गो दुर्निवारणः॥

मूलम्

गुणैकनियतास्तावद्गग्धरूपरसादयः। गन्धत्वादिव्यवच्छिन्नगन्धादिगुणवाचिनः॥

मूलम्

तेषां न द्रव्यपर्यन्ता वृत्तिः क्वचन दृश्यते। न गन्धः पद्ममित्यस्ति सामानाधिकरण्यधीः॥

मूलम्

सामान्यतश्च शब्दानामर्था अपि चतुर्विधाः। मुख्यो गौणो लाक्षणिकस्तात्पर्यार्थ इति श्रुता॥

मूलम्

स्याद्वाचको लाक्षणिको व्यञ्जकश्चेति च त्रिधा। इतिचाप्यपरैरालंकारिकैः प्रविभज्यते॥