मूलम्
ऋलृक्सूत्रे महाभाष्ये शब्दभेदो निरूपितः। चतुष्टयी हि शब्दानां प्रवृत्तिरिह जायते॥
मूलम्
जातिशब्दाः क्रियाशब्दाः गुणशब्दाः तथा परे। यदृच्छाशब्दसंज्ञा स्युः ते च डित्थादयो मताः॥
मूलम्
ये प्रवृत्तिनिमित्तं तदर्थस्थमनपेक्ष्य च । प्रयोक्त्रभिप्रायमात्रात्प्रवर्तन्ते हि ते पुनः॥
मूलम्
शब्दस्वरूपमेवात्र निमित्तमिति निर्णयः। अथचालंकारिकोक्तो विभागस्त्वपरो यथा॥