मूलम्
पदार्थबोधनं शब्दशक्तिजन्यत्वतः पदैः। पार्थसारथ्यादिबुधैः अभिधानमितीर्यते॥
मूलम्
संस्कारोद्बोधनद्वारा पदार्थानां तु बोधनम्। तत्स्यात् स्मरणमेवेति चिदानन्दादयो विदुः॥
मूलम्
पदार्था एव वाक्यार्थं पुनस्संसर्गलक्षणम्। बोधयेयुर्लक्षणया तात्पर्यानुपपत्तितः॥
मूलम्
मीमांसाशास्त्रनिष्णाताः नव्याः प्राहुर्बुधोत्तमाः। तस्मान्नानापदार्थानुरुक्तो वाक्यार्थ इष्यते॥
मूलम्
पदार्थमूलो नामूलो नच संकेतमूलकः। विस्तरोऽस्य त्वन्विताभिधाने ताभिहितान्वये॥
टीका
मानमेय.[519]