मूलम्
अवस्थानेऽपि चेकत्र मुख्यवृत्तेरसौ पुनः। तात्पर्यवृत्तिरन्यत्र दूरे संक्रमतेऽन्यथा॥
टीका
न्या. र.[909]
मूलम्
सामान्यतः प्रयोगेऽपि विशेषावगतिः कथम्। तात्पर्यवृत्तिरभिधावृत्तेरपि बलीयसी॥
मूलम्
यत्परस्स हि शब्दार्थ इति तस्माद्विदुर्बुधाः। प्रवृत्तिशास्त्राणां यस्मात्तात्पर्यनिर्णये॥
मूलम्
पदार्थपर्यवसितोऽभिधाव्यापार इष्यते। तथापि तात्पर्यवृत्तिरपर्यवसिता मता॥
मूलम्
अपर्यवसिता वृत्तिर्यत्र तत्रैकवाक्यता। सा पर्यवसिता या स्यात्पदे वाक्ये च केवले॥
मूलम्
गुणसंबन्धो गौणी लक्षणा शक्ययोगयतः। तात्पर्यशक्तिः तात्पर्यनिर्णयात्सा बलीयसी॥
मूलम्
तां लक्षणां केचिदाहुः बोध्यसंबन्धरूपतः। असतोऽपि हि शब्दोत्थज्ञानगोचरतेष्यते॥
मूलम्
तथाऽगृहीतसंबन्धाः पदार्था एव सर्वशः। आगमार्थं बोधयन्तः बलीयांसो भवन्ति हि॥
टीका
न्या. र.[367]
मूलम्
नियमस्मरणापेक्षाल्लिङ्गात्प्रबल आगमः। विशेषतश्च वेदस्य निर्दोषत्वाद्बलिष्ठता॥
मूलम्
अव्युत्पन्नश्शब्दराशिः स्वस्वरूपं हि बोधयेत्। अतश्च देवताशब्दः स्वरूपे पर्यवस्यति॥