633 नैयायिकलक्षणम्

मूलम्

आप्तवाक्यं शबेदः इति प्राहुर्न्यायविशारदाः । आप्तो यथार्थवक्तेति पौरुषेयत्वसिद्धये ॥

मूलम्

वेदानां प्रोच्यते,तेन प्रामाण्यं परतो मतम्। पदज्ञानं तु कारणं द्वारं तत्र पदार्थधीः॥

मूलम्

शाब्दबोधः फलं तत्र शक्तिधीस्सहकारिणी। आसत्तिर्योग्यताऽऽकाङ्क्षा तात्पर्यज्ञानमिष्यते॥

मूलम्

कारणं,सन्निधानं तु पदस्यासत्तिरुच्यते। पदार्थे तत्र तद्वता योग्यता परिकीर्तिता॥

मूलम्

यत्पदेन विना यस्याननुभावकता भवेत्। साऽऽकाङ्क्षा वक्तुरिच्छा तु तात्पर्यं परिकीर्तितम्॥

मूलम्

इति न्यायविदां मार्गः वैदिकानां पुनस्त्वसौ। परस्परापेक्षितत्वमाकाङ्क्षा स्यात्पदार्थयोः॥

टीका

मानमेयोदयः.[ ]

मूलम्

तात्पर्यविषयार्थानां बाधाभावो हि योगयता। पदजन्या पदार्थानामासत्तिः स्यादुपस्थितिः॥

मूलम्

तत्तदर्थप्रतीतीच्छा तात्पर्यं वक्त्रवस्थिता। वेदोऽपीच्छासमाकारः व्यापोरोऽभ्युपगम्यते॥

मूलम्

शरीरवादे प्रागुक्ता तन्त्रवार्तिकपद्धतिः। तन्निर्णयाय मीमांसा न्यायनिर्णयलक्षणा॥

टीका

मानमे.[110]

मूलम्

लोके तु वक्तुरिच्छेयं ज्ञेया प्रकरणादिना। लौकिकोऽलौकिकश्चेति शब्दोऽतो द्विविधो मतः॥