631 मीमांसकलक्षणम्

मूलम्

आप्तवाक्यं तु शब्दः स्यादाप्तत्वमिदमुच्यते । प्रतारणाद्यप्रयोज्यहिताहितमनीषयोः ॥

मूलम्

प्रयोजनकत्वमाप्तत्वं समानं वेदलोकयोः । इति कैश्चिन्निरुक्तं स्यात् अन्यैरपरथा यथा ॥

मूलम्

यदनाप्तानुच्चरितं वाक्यं शबेद स्स इष्यते । प्रमाणं तल्लोकवेदसाधारणमिति स्थितम् ॥