630 आलङ्कारिकाशयः

मूलम्

अलंकारविदः प्राहुश्शब्दानां विषयो द्विधा । प्रतिपाद्योऽनुमेयश्च प्रथमोऽपि द्विधा मतः ॥

टीका

ध्वन्या.[200]

मूलम्

वाच्यो व्यङ्ग्यश्चेति ततः विवक्षालक्षणः परः । विवक्षाविषयत्वे तु शब्दानां लिङ्गता मता ॥

मूलम्

व्याङ्ग्यस्वरूपे विषये शाब्दता स ध्वनिर्मतः । असौ वादः पूर्वमुक्तवादसंस्कारमूलकः ॥