629 प्रकारान्तरम्

मूलम्

नान्तरीयकताऽभावाच्छब्दानां वस्तुभिस्सह। नार्थसिद्धि्स्ततस्ते हि वक्त्रभिप्रायसूचकाः॥

टीका

सं. वा.[500 श्लो.]

मूलम्

इति कीर्तिवचोमूलो विचारोऽत्रावधार्यताम्। व्यवहाराविसंवादान्मानतेन्द्रियलिङ्गयोः॥

टीका

न्या. र.[402]

मूलम्

आप्तवादाविसंवादाच्छब्दः प्रामाण्यमृच्छति। पूर्वं वाक्यं लिङ्गभूतं वक्तुर्ज्ञानावधारणे॥

टीका

श्लोक.[418]

मूलम्

वक्तृज्ञानप्रसूतं हि वाक्यं तत्कार्यमिष्यते। कार्यात्करणसिद्धिश्च सर्वेषामपि सम्मता॥

मूलम्

ततश्च पुंवाक्यमात्रं न शास्त्रमभिधीयते। नन्वर्थ एव प्रथमं पुंवाक्येनावगम्यते॥

मूलम्

अन्यथा तु कथं वक्तुः धीर्विशिष्टाऽनुमीयते । अर्थेनैव विशेषो हि निराकारतया धियाम् ॥

टीका

न्या. कु.[3 स्त.]

मूलम्

नचाप्रतीतेनार्थेन विशेषो ह्यवगम्यते । अत्र ब्रूते यथार्थत्वशङ्कयाऽर्थो न निश्चितः ॥

मूलम्

अनिश्चितो नहि ज्ञात इति तात्पर्यसंग्रहः । वाक्याद्वाक्यार्थानुमानमादिनस्सौगतानुगाः ॥

मूलम्

वैशेषिकाश्च गुरवः वक्तृज्ञानानुमाविदः । तत्रापि गुरवो लोकवाक्यमात्रानुमाविदः ॥

मूलम्

अपौरुषेयमेवैकं शास्त्रं वाक्यचयात्मकम् । तत्रापि चोदना शास्त्रं नाभिधेति विनिर्णयः ॥

मूलम्

आप्तवादाविसंवादादत्र चेदनुमानता । निर्णयस्तावता सिद्ध्येद्बुद्ध्युत्पत्तिर्न तत्कृता ॥

टीका

श्लोक.[913]

मूलम्

अन्यदेव हि सत्यत्वमाप्तवाक्यत्वहेतुकम् । वाक्यार्थश्चान्य एवेति ज्ञातः पूर्वतरं ततः ॥

मूलम्

तत्रचेदाप्तवादेन सत्यत्वमनुमीयते । वाक्यार्थप्रत्ययश्चात्र कथं वाऽनुमितिस्त्विति ॥