628 वक्तृज्ञानानुमानम्

मूलम्

अत्र प्रतिब्रुवाणानामभिप्रायोऽयमुच्यते। विवक्षितार्थविज्ञानमिन्द्रियार्थनिबन्धनम्॥

मूलम्

तस्य ज्ञानं च वाक्येन लिङ्गभूतेन गम्यते। ज्ञात्वैवार्थं ब्रवीतीति य एवमवधारितः॥

मूलम्

तस्य ज्ञानेन नियतं वाक्यं ज्ञानानुमापकम्। ज्ञानं चार्थाविनाभावि तेनार्थेऽपि विनिश्चयः॥

मूलम्

ततोऽर्थे निश्चिते पश्चात्सोऽर्थो वाक्येन गम्यते। तस्यां दशायां वाक्यस्य तस्य स्यादनुवादता॥

मूलम्

वाक्यार्थस्यानुमानेन व्यभिचारभये गते। अभिधत्ते पुनर्वाक्यमनुवाद इति स्थितम्॥