मूलम्
तत्राकाङ्क्षादिमद्वाक्यतादृग्वाक्यार्थयोरपि। स्वभावाद्यदि संसर्गः नियमो व्याप्तिरेव सः॥
मूलम्
इति वैशेषिकस्वान्तमेष नैयायिकाशयः। संकेतरूपस्संबन्धः संबन्धत्वेन भासते॥
मूलम्
न साहचर्यरूपेण तेन न व्याप्तिलक्षणः। साहतर्यं च संबन्धः संमतो लिङ्गलिङ्गिनोः॥
मूलम्
शब्दार्थयोश्च समयास्सामग्रीभेदतो भिदा। वह्निः क्षुरं मोदकश्चेत्यादिशब्दप्रयोगतः॥
मूलम्
दाहनं पाटनं च स्यात्पूरणं सहितौ यदि। साहतर्यं नैव तस्मात् शब्दो मानान्तरं मतम्॥
मूलम्
मीमांसकानां सिद्धान्ते नियमो व्याप्तिरुच्यते। शक्तिर्बोधकता,तेन नानुमानं प्रसज्यते॥
मूलम्
संबन्धग्रहणं चापि त्वनन्तैर्न च संभवि। अपूर्वोऽपि च वाक्यार्थः कदचिदनुभूयते॥
मूलम्
येचान्विताभिधानस्य वादिनः तन्मते पुनः। गृहीत एव संबन्ध इति शङ्का भवेदपि॥
मूलम्
शब्दो मानान्तरं लोकवेदसाधारणं मतम्। वर्णराशिः क्रमव्यक्तः पदमित्यभिधीयते॥
मूलम्
पदानां सन्निधिर्वाक्यं तद्राशिः ग्रन्थ इष्यते। इति कौमानिलमतं अथ प्राभाकरं पुनः॥