मूलम्
तत्रानुमानमेवेदं बौद्धैर्वैशेषिकैश्श्रितम् । भेदस्सांख्यादिभिस्त्विष्टः न सूक्तं भेदकारणम् ॥
टीका
श्लोक.[410]
मूलम्
पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते। यदाधिक्यं भवेत्किंचित् तत्पदस्य न गोचरः॥
टीका
श्लोक.[432]
मूलम्
धूमादौ देशकालादिद्वारा त्ववगते सति। संबव्धनियमे तेन गमकत्वं प्रतीयते॥
मूलम्
शब्दस्य गमकत्वं तु प्राग्वृद्धेभ्योऽवगमुयते। न संबन्धान्तरं तत्र नचाप्यत्रात्मसंश्रयः॥
टीका
न्या. र.[503]
मूलम्
वृद्धेषु पूर्वपूर्वेषु गमकत्वं हि गृह्यते। अथोत्तरोत्तरेषां तु गमकत्वग्रहो भवेत्॥
मूलम्
यावन्तो यादृशा येच यदर्थप्रतिपादने। वर्णाः प्रज्ञातसामर्थ्याः ते तथैवावबोधकाः॥
मूलम्
तेषां तु गुणभूतानामर्थप्रत्यायनं प्रति। साहित्यमेकवक्तृत्वं क्रमश्चापि विवक्षितः॥
मूलम्
तस्माद्गमततैवादावभिधायकता ततः। ज्ञायते तन्निमित्तेति संज्ञासंज्ञित्वलक्षणा॥
मूलम्
प्रसिद्धा हीन्द्रियं लिङ्गं अभिधायकमित्यपि। एवमन्येऽपि गमकविशेषाः तत्र चेन्दियम्॥
मूलम्
सत्तामात्रेण गमयत्यर्थं सन्निहितं पुनः। यत्तु व्याप्यतया ज्ञायमानं लिङ्गं तदुच्यते॥
मूलम्
गमकं व्यापकस्यैतत्, यत्त्वेतदभिधायकम्। गमकत्वस्यावगमादेव तद्गमयत्यदः॥
मूलम्
तत्संज्ञापरपर्यायमभिधायकतात्मकम्। संबन्धमध्यवस्यन्ति नान्यमित्यवधार्यते॥
मूलम्
औत्पत्तिकस्स शब्दस्यार्थेनेत्येष हि विश्रुतः। यस्त्रिप्रमाणक इति चोपमाने निरूपितः॥
टीका
मानमेय.[411]
मूलम्
वाक्यार्थे तु पदार्थेभ्यस्संबन्धानुभवादृते। बुद्धिरुत्पद्यते तेन भिन्नऽसावक्षबुद्धिवत्॥
मूलम्
संकेतमूलो वेदस्स्याच्चेष्टावद्बोधकत्वतः। शब्दत्वाद्वा देवदत्तनिनदादिवदित्यसत्॥
मूलम्
संकेतयितुरज्ञानात्संप्रदायेऽपि संतते। बोधकत्वं ततो नित्यमनुमानं तु बाधितम्॥
मूलम्
यथा वह्नौ दाहकता यथा बोदकतेन्द्रिये। तथा शब्दे गमकता दृष्टा स्वभाविकी च सा॥
मूलम्
तस्याश्च ग्रहणं चापि शब्दे लिङ्गवदिष्यते। तथाऽपि शब्दो नार्थस्य लिङ्गं भवितुमर्हति॥
मूलम्
बोध्यबोधकभावोऽत्र संबन्धोऽन्यत्रचापरः। व्याप्यव्यापकभावस्स्यात् धीद्वारं तु द्वयोस्समम्॥