624 वैदिकसमाधानम्

मूलम्

अत्रोच्यते वेदविदां सम्प्रदायस्य संग्रहः । यदर्थं सकलं शास्त्रं मीमांसाख्यं प्रवर्तितम् ॥

मूलम्

पदार्थानां तु संसर्गमसमीक्ष्य प्रजल्पतः । वक्तुरेव प्रमादोऽयं न शब्दोऽत्रापराध्यति ॥

मूलम्

तेनाभिधातृदौरात्म्यकृतेयमयथार्थता । प्रत्ययस्येति, शब्दानां नार्थासंस्पर्शिता स्वतः ॥

मूलम्

अनुच्चारितशब्दोऽपि पुरुषो विप्रलम्भकः । हस्तसंज्ञाद्युपायेन जनयत्येव विप्लवम् ॥

मूलम्

या तु जात्यादिशब्दार्थपराकरणवर्त्मना । अर्थासंस्पर्शिता सैषाऽपोहवादे निराकृता ॥