मूलम्
शाक्या वैशेषिकाश्चापि पृथक् शब्दस्य मानताम्। नाङ्गीकुर्वन्ति तैरुक्तं वचनं चेदमुच्यते॥
मूलम्
प्रत्यक्षमनुमानं च प्रमाणे सदृशात्मनः। अप्रत्यक्षस्य संबन्धात् अन्यतः प्रतिपत्तिः॥
टीका
न्या. र.[410]
मूलम्
अपोद्धृताभिधायी च शब्दः वस्तु न संस्पृशेत्। अपोहवाचोयुक्त्या च शून्यता सैव सम्मता॥
टीका
न्या. र.[562]
मूलम्
प्रशस्तपादभाष्यानुवादोऽप्येष निशम्यताम्। वक्तृप्रामाण्यसापेक्षः श्रुतिस्मृत्यादिलक्षणः॥
मूलम्
आम्नायोऽप्यनुमानं तद्वचनादिति सूत्रणात्। वक्तृज्ञानानुमानेन प्रामाण्यं तस्य सम्मतम्॥