622 शाब्दिकसौगताक्षेपः

मूलम्

इति सौगतसिद्धान्तः एष शाब्दिकसौगतः। तद्वाक्यार्थात्मना वाक्यं निर्भागं हि विवर्तते॥

टीका

न्या. र.[941]

मूलम्

वाक्यार्थो वाक्यतो नार्थान्तरमित्यवधार्यते। शब्दस्य न विभागोऽस्ति कुतोऽर्थस्य भविष्यति॥

मूलम्

विभागौः प्रक्रियामात्रमविद्वान् प्रतिपद्यते। शाब्दवैवर्तवादोऽयं वाक्यार्थे ह्यस्य विस्तरः॥