मूलम्
विकल्पयोनयश्शब्दा विकल्पाश्शब्दयोनयः। कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यतः॥
टीका
प्रक.[9 प्र.]
मूलम्
भिक्षुणा जातिमात्रस्य तथा जातिमतोऽपि वा। जातिमाद्योगस्य चापि वाच्यत्वमिह दूषितम्॥
टीका
न्या. र.[588]
मूलम्
एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम्। कोऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते॥
मूलम्
वस्तुरूपं हि निर्भागं तत् प्रत्यक्षनिवेदितम्। अतो बलाल्लिङ्गशब्दौ अपोहविषयौ मतौ॥
मूलम्
नागोनिवृत्तिर्नासप्तिनिवृत्तिर्वा।वबुध्यते। किंतु वस्तुस्वरूपेण स शब्दार्थोऽवगम्यते॥
मूलम्
व्यावृत्तेष्वनुवृत्तं तं अपश्यन्तः परीक्षकाः। अतद्व्यावृत्तिरूपं तं सुनिष्कृष्य प्रचक्षते॥
मूलम्
अनादिवासनावेगात् व्यावृत्तिरपि सा पुनः। सद्रूपमिव भिन्नं च तत्रतत्रावभासते॥