मूलम्
नन्वत्र प्रथमं शब्दे प्रामाण्यं नावकल्पते। प्रामाण्येऽपि पृथग्भावो नास्तीत्यथ परीक्ष्यते॥
मूलम्
अर्थप्रतीतिजनकं प्रमाणामिति सम्मतम्। विकल्पमात्रामूलत्वान्नार्थं शब्दाः स्पृशन्त्यमी॥
मूलम्
अङ्गुल्यग्रे हस्तियूथशतमित्यादिवाक्यतः। एष वन्ध्यासुतो यातीत्यतो वाऽर्थः क इष्यते॥
मूलम्
लोलाक्षीणां लक्षमभिरमयेद्यः पुमामिह। स गन्धर्वपदं प्राप्नोतीति च श्रूयते स्वनः॥
मूलम्
स्वर्गकामो दर्शपूर्णमासाभ्यां च चरेदिति। वाक्यास्यार्थे कथं लोके न स्यात् श्रद्धैव केवलम्॥
मूलम्
अर्थो निरूप्यमाणश्च को वा शब्दस्य शक्यते। वक्तुं, न जातिः न व्यक्तिः न तद्वान्नाम कश्चन॥
मूलम्
संबन्धोऽप्यस्य नार्थेन नित्योऽस्ति समयोऽथवा। शक्यः सन्नपि वा बोद्धुं अर्थे कथमतीन्द्रिये॥
मूलम्
वाक्यार्थोऽपि न निर्णेतुं पार्यते पारमार्थिकः। नियोगभावनाभेदसंसर्गादिस्वभावकः॥
मूलम्
तत्प्रतित्यभ्युपायश्च किं पदार्थः पदानि वा। वाक्यं वा व्यतिषिक्तार्थं स्फोटो वेति न लक्ष्यते॥
मूलम्
सिद्धायामपि तद्बुद्धौ तस्याः द्रढिमकारणम्। सित्यत्वमाप्तोक्तत्वं वा न सम्यगवतिष्ठते॥
मूलम्
पदे नित्येऽपि वैदिक्यो रचनाः कर्तृपूर्विकाः। नित्या वा कृतकत्वेऽपि कृताः केनेति दुर्गमम्॥
मूलम्
कर्ताऽस्ति स च निर्द्वन्द्वः स चैकः स च सर्ववित्। स च कारुणिको वेति प्रतिपत्तुं न शक्यते॥
मूलम्
परस्परविरुद्धाश्च सन्ति भूयांस आगमाः। तेषां कस्येश्वरः कर्ता कस्य नेति न गम्यते॥
मूलम्
वेदे दोषाश्च विद्यन्ते व्याघातः पुनरुक्तता। फलस्यानुपलम्भश्च तथा फलविपर्ययः॥
मूलम्
सिद्धकारयोपदेशाच्च वेदे संशेरते जनाः। किमस्य कार्ये प्रामाण्यं सिद्धेऽर्थे वोभयत्र वा॥
मूलम्
तेन वेदप्रमाणत्वं विषमे पथि वर्तते। जीविकोपायबुद्ध्या वा श्रद्धया वाऽभ्युपेयताम्॥