मूलम्
अत्र प्रतिब्रुवन्त्येवं कुमारिलमुखा बुधाः। अक्षादेवोत्पद्यतेऽसावभावो मानमिष्यते॥
टीका
श्लोक.[488]
मूलम्
त्रिरूपलिङ्गजन्यार्थदृक्प्रमाणमितीरयन्। कथं तुच्छस्वरुपस्य कारणापेक्षितां वदेत्॥
मूलम्
अनुमा दुर्निरूपाऽत्र मानमित्यैक्यवादिना। तस्मादनुपलम्भोऽस्ति,प्रमाणं वाऽथवा न सः॥
मूलम्
अक्षापेक्षा तु नाभावग्रहणायोपयुज्यते। किंतु दृश्यादर्शनाय भूतलाद्यवबुद्धये॥
टीका
न्या. र.[482]
मूलम्
दृश्यादर्शनमक्षं च मिलित्वैवावबोधयेत्। अभावेन विशिष्टं तं भावं यद्भूलादिकम्॥
मूलम्
नच भिन्नेन्द्रियग्रह्यं किंचिदस्त्यनुरागकृत्। नहि लाक्षानुरक्तेऽपि स्फटिके धिस्त्वगादिभिः॥
टीका
श्लोक.[197]
मूलम्
इत्यादिवचनं तु स्यात्संबन्धन्धाग्रहहोचरम्। प्रकृते तूभयोश्चैव संसर्गोऽभावगोचरः॥
मूलम्
त्वाचं क्षीरं तस्य रसः संसर्गोऽपि च रासनः। तथाच मधुरं क्षीरमिति लोके विशिष्टधीः॥
टीका
न्या. र.[483]
मूलम्
शब्दस्तु श्रावणः तस्य चार्थे श्रौत्रो न चान्वयः। तस्मान्न चक्षु- शब्दादिरञ्जितस्यावबोधकृत्॥