मूलम्
दृश्यसत्ता भवद्व्याप्या दर्शनं व्यापकं मतम् । व्यापकानुपलब्ध्यैव व्याप्याभावोऽवसीयते ॥
टीका
न्या. र.[486]
मूलम्
लिङ्गेनानुपलब्ध्यैव ह्यभावस्य गतार्थता। इति बौद्धाः तन्न युक्तं लिङ्गज्ञानानवस्थितेः॥
मूलम्
अभिप्रायस्सौगतानां तेषामेषोऽवधार्यताम्। यो न्यायमञ्जरीन्यायरत्नाकरविशोधितः॥
मूलम्
दृश्यं सद्यत्र यत्किंचिद्वस्तु नैवोपलभ्यते। नास्ति तद्वस्तु तत्रेति बुद्धिसत्त्वे पुमानिव॥
मूलम्
न दृश्यते चात्र देशे दृश्योऽपि कलशस्त्विति। स्वभावहेतुरनुपलब्धिः स्यात्प्रतिषेधकः॥
मूलम्
यैवैकज्ञानसंसर्गिवस्त्वन्यतरगोचरा। धीस्सैवैकतरस्येष्टाऽनुपलब्ध्यभिधा॥
मूलम्
उपलब्धेरभावोऽन्यो नोपलब्ध्यतिरेकतः। तस्मान्न तस्यानुरलब्ध्यन्तरापेक्षयास्थितिः॥
मूलम्
योऽसावन्यतरस्योपलम्भः स स्वयमेवहि। संवेद्य इतियपि ततो नैव चात्रानवस्थितिः॥
मूलम्
नास्तीत्यादिव्यवहृतियोग्यताऽभावशब्दिता। तादात्म्यमेव संबन्धः तया तस्या इति स्थिति॥
मूलम्
बहुधाऽनुपलब्धिर्हि तीर्थकृद्भिर्निरूपिता। एकादशविधामेके परे षोडशधा विदुः॥
मूलम्
व्यापकानुपलब्धिस्तु प्रायशस्सर्वसम्मता। व्यापकानुपलब्ध्या हि पक्षे व्याप्यं निवर्त्यते॥
मूलम्
या व्यापकविरुद्धस्य चोपलब्धिरनन्तरा। पृथिवीत्वव्यापकस्य द्रव्यत्वस्य विरोधिनः॥
मूलम्
गुणवस्योपलम्भेन पृथिवीत्वनिषेधधीः। तया संपद्यत इति साऽपि सर्वत्र सम्मता॥