616 नैयायिकमतम्

मूलम्

इति मीमांसकाः प्राहुः अत्र नैयायिका जगुः। अभावः प्रत्यक्ष इति सर्वानुभावसाक्षिकः॥

मूलम्

येनेन्द्रियेण या व्यक्तिः गृह्यते तेन तद्गता। जातिश्च तदभावश्च गृह्येते इति निर्णयः॥

मूलम्

विशेषणतया सन्निकर्षेणैष प्रतीयते। सा हि स्वरूपसंबन्धः न च ज्ञाननिरूपिता॥

टीका

न्या. कु.[3 स्त]

मूलम्

स्याद्योग्युपलब्धिश्च करणे सहकारिणी। प्रतियोग्युपलम्भे चाभावो नैवोपलम्यते॥

मूलम्

यदि स्यादुपलभ्येतेत्येवं यत्र प्रसज्यते। तादृशप्रतियोगित्वं योग्यताऽनुपलब्धिगा॥

मूलम्

तस्मात्तमसि कुम्भादेरभावो नोपलभ्यते। तत्र कुम्भोपलब्धिस्तु प्रसङ्गं नैव चार्हति॥

मूलम्

तस्मादनुपलब्धिस्तु न मानान्तरमिष्यते। अपिचानुपलभस्याज्ञातस्य यदि हेतुता॥

मूलम्

ज्ञानाकरणकत्वेन प्रत्यक्षत्वमिहाक्षतम्। यदि ज्ञातस्य हेतुत्वं तत्रापि तदपेक्षया॥

मूलम्

दुरुद्धराऽनवस्था स्यात् साऽपि चाभावलक्षणा। भावान्तराभाववादेऽनुपलब्धिः न विद्यते॥

मूलम्

स्वरूपेण पुनर्ज्ञाने भावरूपेण वेद्यते। प्रतियोगिस्पर्शितायां अभावत्वेन तद्ग्रहः॥