615 तस्योपव्याख्यानम्

मूलम्

अधोपलम्भयोग्यत्वे सत्यप्यनुपलम्भनम्। अभावाख्य़ं प्रमाणं स्यात् अभावस्यावबोधकम्॥

मूलम्

विषयं तदधीनांश्च सन्निकर्षादिकान्विना। उपलम्भस्य सामग्रीसंपत्तिरिह योगयता॥

मूलम्

सा च ज्ञाततयाऽभावज्ञानस्य सहकारिणी। अज्ञातोऽनुपलम्भस्तु सत्तामात्रेण बोधकः॥

मूलम्

योग्यत्वावगमार्थं हि सूक्ष्मार्थाभाववेदने। सूक्ष्मबोधकनेत्रांशुसंपातार्थं प्रयस्ते॥

मूलम्

योग्यत्वस्य च संदेहे विपर्यासेऽथवा सति। अभावेऽपि हि संदेहः भ्रमो वाऽस्त्येव तद्यथा॥

मूलम्

तमसि भ्रष्टमन्विष्यन् कराभ्यामङ्गुळीयकम्। सर्वोर्वीस्पर्शसंदेहात् अभावेऽप्येति संशयम्॥

मूलम्

तथैव सर्वतोऽस्पर्शे मत्वा सर्वाभिमर्शनम्। सत एवाङ्गुळीयस्याप्यभावं बुध्यते भ्रमात्॥

मूलम्

द्विविधोऽनुपलम्भः स्यात्प्रतियोगिप्रभेदतः। प्रमितिश्च स्मृतिश्चेति तत्राद्या प्रतियोगिनी॥

मूलम्

प्रत्यक्षादिप्रभेदेन प्रमितिः पञ्चधा स्थिता। तथैवानुपलम्भोऽपि प्रविभागमिहार्हति॥

मूलम्

अभावाख्यं तु वस्त्वेव नास्तीत्याह प्रभाकरः। हसन्ति चिन्तां तस्यान्तेवसन्तः पुनरीदृशीम्॥