614 मीमांसकमतम्

मूलम्

प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । साऽऽत्मनोऽपरिणामो वा विज्ञानं वाऽन्यवस्तुनि ॥

टीका

श्लोक.[475]

मूलम्

तत्र तृतीयपादेनानुपलब्धिर्विवक्षिता । तुरीयेन तु पादेनाभावबुद्धिर्विवक्षिता ॥

मूलम्

प्रमायाः करणत्वे तु फलं हानादिबुद्धयः । इति न्यायोऽभ्युपेतव्य इति वार्तिककृन्मनः ॥

मूलम्

अथ तस्यैव विवृतिः सम्प्रदायप्रवर्तकैः। प्रकाशितो लिख्यतेऽत्र पुनः वैशद्यसिद्धये॥