मूलम्
प्राभाकरास्विमं भेदं न विवक्षन्ति तद्यथा । अर्थं बुद्ध्वा शब्दक्लृप्तिरिति सर्वत्र विश्रुता ॥
मूलम्
केवलं द्वारमित्युक्ते पिधेहीति न कल्प्यते । किंतु क्लृप्तिः पिधानस्य तदर्थस्यैव लाघवात् ॥
मूलम्
अत एव च शब्दस्य नाध्याहारमिमे विदुः । भाट्टा नैयायिकाश्चापि शब्दाध्याहारवादिनः ॥
मूलम्
पुष्पेभ्य इति शुद्धोक्तौ स्पृह्यर्थो यदि कल्प्यते । चतुर्थ्यनुपपत्तिस्स्यात् शब्दस्तदुपपादकः ॥
टीका
पा. सू.[1-4-36]
मूलम्
अर्थाध्याहारपक्षे तु कार्यं वेदार्थ इष्यते । स एव धर्मः वेदैकगम्यता न विरोत्स्यते ॥
मूलम्
द्रव्यक्रियागुणादीनां धर्मत्वं ये विदुर्बुधाः । अन्यथाऽनुपपत्त्या हि तेषां वेदस्य कल्पना ॥
टीका
श्लोक.[49]
मूलम्
लौकिकोऽलौकिकश्चेति यथा शब्दो द्विधा मतः । लौकिक्यलौकिकी चेति श्रुतार्थापत्तिरप्यसौ ॥