612 अर्थापत्तिविभागः

मूलम्

यत्र त्वपरिपूर्णस्य वाक्यस्यान्वयसिद्धये । शब्दोऽध्याह्रियते तत्र श्रुतार्थापत्तिरिष्यते ॥

टीका

श्लोक.[463]

मूलम्

पीनो दिवा च नात्तीति साकाङ्क्षवचनश्रुतेः । तदेकदेशविज्ञानं श्रुतार्थापत्तिरुच्यते ॥

मूलम्

तामर्थगोचरां केचिदपरे शब्दगोचराम् । कल्पयन्त्यागमाच्चैनामभिन्नां प्रतिजानते ॥

मूलम्

प्रायशश्चानया वेदे व्यावहारः व्यवस्थितः । सोऽवैदिकः प्रसज्येत यद्येषा भिद्यते ततः ॥

मूलम्

वह्निसंसर्गतो दाहस्यान्यथाऽनुपपत्तितः । क्लृप्तिर्दहनशक्तेस्तु दृष्टार्थापत्तिरुच्यते ॥

मूलम्

प्रमाणग्राहिणीत्वेन दृष्टार्थापत्तितोऽधिका । श्रुतार्थापत्तिरेष्टव्या प्रमेयग्राहिणी परा ॥