मूलम्
अर्थापत्तेस्तु नैवेह प्रमाणान्तरतेष्यते। व्यतिरेकव्याप्तिबुद्ध्या चरितार्था हि सा यतः॥
मूलम्
सत्त्वभोजनयोर्व्याप्ये स्यातां जीवनपीनते। जीवत्वे च गृहासत्त्वं बहिस्सत्त्वं प्रसाधयेत्॥
मूलम्
पीनत्वे त दिवाऽभुक्तिः रात्रिभोजनसाधनम्। इति नैयायिकाः प्राहुः इतरेऽपि तदध्वगाः॥
मूलम्
अनियम्यस्य नायुक्तिः नानियन्तोपपादकः। न मानयोर्विरोधोऽस्ति प्रसिद्धे चाप्यसौ समः ॥
टीका
न्या. कु.[3 स्त.]
मूलम्
इदमौदयनं पद्यं तस्य चार्थोऽयमुच्यते । व्याप्यमेवोपपाद्यं स्यात् व्यापकश्चोपपादकः ॥
मूलम्
विरोधे नैव मानं स्यात् अनुमानेऽपि सा भवेत् । विस्तरो न्यायकुसुमाञ्जल्यादौ वीक्ष्यतां बुधैः ॥