मूलम्
तार्किकध्वंसनोपायमेतादृशमजानता। गुरुणा कल्पितः कश्चिज्जीवनस्यात्र संशयः॥
मूलम्
जीवनं किल विज्ञातं वेश्मवर्तितया पुरा। तस्माज्जीवनसंदेहः भवेद्वेश्ममन्यदर्शनात्॥
टीका
प्रक.[5 प्र.]
मूलम्
संदिग्धं जीवनं त्वेतत् बहिर्भावस्य बोधकम्। अर्थापत्तेः प्रभावोऽयं यत्सन्दिग्धोऽपि बोधेयत्॥
मूलम्
एवं जीवनसंदेहे स्यात्संदिग्धविशेषणः। हेतुरित्यनुमानत्वनिरासः सुकरो मतः॥
मूलम्
तत्संदेहव्युदासाय कल्पना या प्रवर्तते। संदेहापादकादर्थापत्तिरसौ मता॥
मूलम्
दृष्टान्तदृष्टनियमस्मरणे त्वनुमा मता। प्रतिघातालोचने स्यादर्थापत्तिर्विलक्षणा॥
मूलम्
विना कल्पनयाऽर्थेन दृष्टेनानुपपन्नताम्। नयता दृष्टमर्थं या साऽर्थापत्तिस्तु कल्पना॥