609 कुमारिलमतम्

मूलम्

प्रमाणषट्कविज्ञातो यत्रार्थो नान्यथा भवेत्। अदृष्टं कल्पयेदन्यं साऽर्थापत्तिरुदाहृता॥

टीका

श्लोक.[450]

मूलम्

तत्र प्रत्यक्षतो ज्ञाताद्दाहाद्दहनशक्तता। तथैवानुमितात्सूर्ये यानात्तच्छक्तिशालिता॥

मूलम्

तथैवोपमितादर्थात्स्यादर्थान्तरकल्पना। इत्याद्यूह्यं बुधैस्तत्र निर्णयांशोऽवगम्यताम्॥

मूलम्

साधरणप्रमाणानामसाधारणमानतः। विरोधादविरुद्धांशे धीरर्थापत्तिरुच्यते॥

मूलम्

यथा जीवनमानस्य मन्दिराभावमानतः। विरोधात्करणीभूतात् बहिर्भावस्य कल्पना॥

मूलम्

तस्माद्यो विद्यमानस्य गृहाभावोऽवगम्यते। स हेतुस्स बहिर्भावमगृहीत्वा न गृह्यते॥

मूलम्

प्रमेयस्य प्रवेशोऽयं विशेषोस्त्यनुमानतः। विलक्षणप्रमाणत्वात् तस्य नास्त्यत्र दोषता॥