608 शक्तिग्रहविचारः

मूलम्

उपमानप्रमेयं चेत्संबन्धः स्यात्पदार्थयोः। स सामयिक एव स्यात् आरण्यकनरश्रुतः॥

मूलम्

एवमारण्यकाः केचित् केचिन्नागरकास्तथा। केचिद्देशान्तरविश्रुताः कतिचित्पुनः॥

मूलम्

द्वीपान्तरनरप्रोक्ता एवं सर्वे पदात्मकाः। शब्दास्स्युरिति संकेतसिद्धान्तः विजयी भवेत्॥

मूलम्

औत्पत्तिकं तु संबन्धं शब्दस्यार्थेन ये विदुः। अर्थापत्तिप्रमाणेन साक्षात्तैस्तद्ग्रहो मतः॥

मूलम्

प्रत्यक्षं चानुमानं च तदुत्पादे प्रवर्तते। अतस्संबन्धविज्ञानं त्रिप्रमाणकमुच्यते॥

टीका

न्या. म.[245]

मूलम्

संबन्धाक्षेपशान्त्यन्ते वागेषा श्लोकवार्तिके। शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्यति॥

टीका

श्लोक.[680]

मूलम्

श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया। अन्यथाऽनुपपत्तया च बुद्ध्येत् शक्तिं द्वयाश्रिताम्॥

मूलम्

अर्थापत्त्याऽवबुध्यन्ते संबन्धं त्रिप्रमाणकम्। नच सामयिकस्तस्मात्संबन्ध इति निर्णयः॥

मूलम्

ये तु सामयिकं तं च संबन्धं तार्किका विदुः। तेषां व्याकरणादीनि प्रमाणानीति निश्चितम्॥

टीका

वै. सू.[7-2-20]

मूलम्

अतस्संकेतसंबन्धसिद्ध्यर्थं मार्गशोधनम्। तन्मार्गप्रतिरोधाय त्रिप्रमाणकतोदिता॥

मूलम्

सर्वमेतच्च वेदस्यापौरुषेयत्वसिद्धये। तत्पौरुषेयतायै च नदीनां सागरो गतिः॥