मूलम्
अथ मीमांसकैकान्तः किंचित्संगृह्यतेऽधुना॥
टीका
श्लोक.[433]
मूलम्
दृश्यमानार्थसादृश्यात्स्मर्यमाणार्थगोचरम्। असन्निकृष्टसादृश्यज्ञानं मैमांसकं मतम्॥
मूलम्
गवयस्थितसादृश्यदर्शनं करणं भवेत्। फलं गोगतसादृश्यज्ञानमितित्यवधार्यते॥
मूलम्
तस्माद्यस्मर्यते तत् स्यात्सादृश्येन विशेषितम्। प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम्॥
मूलम्
प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते। विशिष्टस्यान्तोऽसिद्धेरुपमानप्रमाणता॥
मूलम्
प्रत्यक्षे च यथा देशे स्मर्यमाणे च पावके। विशिष्टविषयत्वेन नानुमानाप्रमाणता॥
मूलम्
तथोपमानप्रमाण्यं विदुषां हृदयङ्गमम्। आग्नेयवाक्यं स्वसदृक्सौर्येणोपमितं यदा ॥
मूलम्
तदाचोपस्थिते स्वार्थे तृतीयोंऽशो ह्यपेक्षितः। सैर्यभावनया ग्रह्य इत्यस्त्येतत्प्रयोजनम्॥
मूलम्
तथा प्रतिनिधिद्रव्यसंग्रहोऽपपि क्वचिद्भवेत्। नचेदमनुमानादिनेति मानं पृथक्ततः॥