मूलम्
नव्यनैयायिकानां तु सिद्धान्तोऽथ प्रदर्श्यते। श्रुतातिदेशवाक्यस्य तथा विपनगामिनः॥
मूलम्
ग्रामाणस्य प्रथमतः पश्यतो गवयादिकम्। साद्दश्यधीर्गवादीनां या स्यात्सा करणं मतम्॥
मूलम्
वाक्यार्थस्यातिदेशस्य स्मृतिर्व्यापर इष्यते। गवयादिपदानां तु शक्तिधीरुपमा फलम्॥
मूलम्
तस्मादयं स गवयो नामेत्येवंविधा मतिः। उपमानैकजन्यैव न प्रमाणान्तरोद्भवा॥
मूलम्
साधर्म्यादथ वैधर्म्याद्धर्ममात्राच्च तत् त्रिधा। गवयो गौरिवेत्यादिवाक्यं साधर्म्यमूलकम्॥
टीका
न्या. भा.[1-1-6]
मूलम्
गवादिवन्न द्विशफः भवेद्वाजीति यद्वचः। तद्वैधर्म्यनिदानं स्याद् धर्ममात्रात्पुनर्यथा॥
मूलम्
दीर्घग्रीवः प्रलम्बोष्ठः कण्टकाशी क्रमेलकः। सादृश्यवचनं चैतद्द्वयोस्स्यादुपलक्षणम्॥
मूलम्
प्रत्यक्षप्रत्यभिज्ञास्स्युः सादृश्यादिधियो यतः। गवयेन सदृग्गौरित्येषा नोपमितिस्ततः॥
मूलम्
प्रसिद्धेन हि सादृश्यमप्रसिद्धस्य गम्यते। गवा गवयपिण्डस्य न तु युक्तो विपर्ययः॥
मूलम्
यच्चावगतविज्ञानं प्रत्युत्पन्ननिदानजम्। सा संगतिः स संवादः सोऽनुवाद इतीर्यते॥
टीका
न्या. र.[435]
मूलम्
सादृश्यस्यानिमित्तत्वान्निमित्तस्याप्रतीतितः। समयो दुर्ग्रहः पूर्वं शब्देनानुमयाऽपिवा॥
टीका
न्या. कु.[3 स्त.]
मूलम्
प्रायस्सर्वेऽनुमानान्तर्भावमाहुर्यथापुनः। एषेव गौस्सेतिबुद्धिरनुमाऽन्योन्यहस्तवत्॥
मूलम्
यद्वाऽऽप्तवाक्याद्वुयुत्पत्तिश्चिह्नोन्नीतनिमित्ततः।