मूलम्
वृद्धनैयायिकास्तत्रातिदेशवचनं श्रुतम्। संज्ञाप्रतीतिफलकमुपमानं प्रचक्षते॥
टीका
श्लोक.[433]
मूलम्
उपायमात्रावगमे शब्दव्यापारविश्रमात्। निरपेक्षोपेयबोधतत्परादागमाद्भिदा॥
मूलम्
यथा परार्थानुमानं नागमः किंतु भिद्यते। लिङ्कसामर्थ्यरूपस्योपायस्य प्रतिपादनात्॥