604 वीतरागकथा

मूलम्

वादरूपैवैकधेति कथां तामार्हता विदुः। वीतरागकथा वाद इत्यतो विश्रुतो भुवि॥

मूलम्

विश्रुता वीतरागस्ते नाम्नाऽपि प्रायशो बुधाः। पराजयभयाद्वीतरागता यशसेऽपि वा॥

मूलम्

इति भेदानादरस्स्यादित्याहुर्वादकौतुकाः। नियोज्यः पर्यनूयोज्यः न कश्चित्कस्यतिद्भुवि॥

मूलम्

संभवैतिह्यचेष्टादिप्रमाणानां यथायथम्। अनुमानप्रभृतिषु ह्यन्तर्भावो बुधार्मतः॥

मूलम्

चेष्टा सामयिकी शब्दव्यवहारानुसारिणी। अस्येयं बोधिकेत्येवं भरताद्यागमे स्थिता॥

मूलम्

एवं लिप्यादिकमपि यथासंभवमर्हति। अन्तर्भावं ततस्तत्र न बिकल्पोऽस्ति वादिनानम्॥

मूलम्

इत्येवमनुमानस्य सारांशः परिकीर्तितः। बहुभिर्बहुधा प्राज्ञैः प्रायशो विस्तरः कृतः॥