603 कथाविज्ञानफलम्

मूलम्

छलं च प्रायशः विश्वव्यामोहनमिति स्थितम्। जातिः स्वव्याघातकत्वादसदुत्तरमुच्यते॥

मूलम्

परापादिदोषाणामनभ्युपगमेन वा। तदुद्धारेण वा दोषं ब्रूयादिति विनिर्णयः॥

मूलम्

तथैवाप्रतिपत्तया वाऽथवा विप्रतिपत्तितः। प्रतिज्ञादिपरित्यागान्निग्रहस्थानसंभवः॥

टीका

न्या. ता.[499]

मूलम्

तूष्णींभावो यदा तूष्णींभावो निग्रहकारणम्। प्रलपेत्तु यदा तत्र भवेत्प्रलपितं तु तत्॥

मूलम्

यथायथा चेष्टते सः तथा निग्रहहेतुता। अनन्तं निग्रहस्थानं कीर्तितं धर्मकीर्तिना॥

मूलम्

एवं नानाविधकथाभासतत्त्वावलोकिनाम्। सदुत्तैरस्तदुत्थानात् तत्त्वधीजयसंभवः॥

मूलम्

अन्यथा षण्डचेष्टावद्भवेयुरफलाः कथाः। इति प्रख्यापनायात्र कथाभास उदाहृतः॥