मूलम्
छलैश्च निग्रहस्थानैः जातिभिश्चापि साधनम्। उपालम्भश्च वादे चेत् स जल्प इति निर्णयः॥
मूलम्
विद्यायाः पालनार्थं सः न लाभाद्यर्थमिष्यते। छलं च त्रिविधं प्रोक्तं तद्द्वाविंशतिधा पुनः॥
मूलम्
निग्रहस्थानमुदितं चतुर्विंशतिधा परम्। इति न्यायविदः प्राहुः परैर्विविधमिष्यते॥