601 पत्रमुखकथा

मूलम्

अथ पत्रमुखो वादो विदुषां हृदयंगमः। प्रमेयाम्बुजमार्ताण्डोदाहृतः कश्चिदुच्यते॥

मूलम्

प्रसिद्धवयवं वाक्यं स्वेष्टस्यार्थस्य साधकम्। साधुगूढपदप्रायं पत्रमाहुरनाकुलम्॥

मूलम्

श्वान्तभासितभूताद्यत्र्यन्तात्मतदुभान्तवाक्। परान्तद्योतितोद्दीप्तमितितस्वात्मकत्वतः॥

मूलम्

चित्राद्यदन्तराणीयमारेकान्तात्मकत्वतः। यदित्थं न तदित्थं न यथाकिंचिदिति त्रयः॥

मूलम्

तथाचेदमिति प्रोक्तौ चत्वारोऽवयवा मताः। तस्मात्तथेति निर्देशे पञ्च पत्रस्य कस्यचित्॥