मूलम्
अर्थिप्रत्यर्थिनोस्चावन्न द्वयोर्जयसंभवः। एकस्य विजयेऽपि स्यात् सफला सत्कथैव सा॥
मूलम्
यत्र द्वयोर्न विजयः नवा तत्त्वविनिश्चयः। कुकथां कथयन्त्येनां असुदुक्तिपरंपराम्॥
मूलम्
तां द्विकक्ष्यादिकामेके षट्कक्ष्यावधिकां विदुः। पूर्वत्रासंभवात् सभ्यैः उत्तरत्र निवारणात्॥
मूलम्
असदप्रतिभादौ तु पक्षैकत्वमपि क्वचित्। सभ्येष्वसत्स्वदक्षेष्वप्युपर्युपरि धावति॥