मूलम्
वादेषु नियमा एते कल्प्यन्ते प्रौढिसिद्धयो। अदन्त्यो वा निरोष्ठ्यो वा लुङ्प्रयोगोऽथवा तथा॥
टीका
स. सि.[4-63]
मूलम्
यङ्प्रयोगो यक्प्रयोगः इत्यादिश्शब्दगोचरः। अनुमानेनैव तथा शब्देनैव तथेति वा॥
मूलम्
वैदिकेनागमेनैवेत्येवं मानव्यवस्थितिः। छलजात्यादयोऽप्येवं निग्रहस्थानलक्षणाः॥
मूलम्
कक्ष्यागिनियमाश्चापि न्यायशास्त्रे हि विश्रुताः। एवंविधा हि निर्बन्धाः वादिनां जयहेतवः॥