मूलम्
अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः। इति सत्यविदः प्राहुः, आद्यो वादस्य खण्डने॥
मूलम्
यदि शून्यविदं वादानधिकारं वदेत्सुधीः। तस्मिन्नेव विवादेनाधिकारं दित्सति स्वयम्॥
मूलम्
यदि शून्यविदन्यं प्रत्याहानधिकृतिं सुधीः। तस्य चाप्रतिवादित्वात् निग्रहस्थानमेव तत्॥
मूलम्
अत्रोत्तरं पुनरिदं ते वादानधिकारिमः। इत्यन्तेवसतां सोऽयमुपदेशो भवेदिति॥
मूलम्
कथानधीकारवाचा निष्प्रयोजनतोदिता। इति मार्गान्तरं न्यायपरिशुद्धावुदीरितम्॥
मूलम्
प्रयोजनानुयोगेन वितण्डावादिनिग्रहः। वात्स्यायनोदितः सोऽध्वा विद्वद्भिरनुगम्यते॥
मूलम्
विस्तरश्शतदूषण्यां वेदान्ताचार्यसूरिभिः। कृतः कथाऽनधीकारवादे नावमिके पुनः॥
टीका
शतदू.[9]