597 कथानिरूपणम्

मूलम्

एकाधिकरणौ धर्मौ तुल्यकालौ विरोधिनौ। पृथक्परिग्रहौ पक्षप्रतिपक्षावुदीरितौ॥

टीका

न्या. म.[590]

मूलम्

परस्परविरुद्धार्थवादिनोर्हि विवादिनोः। व्यवहारः कथेत्युक्तः सा कथा त्रिविधा मता॥

मूलम्

वादजल्पवितण्डाभिः तत्स्वरूपं पुनस्त्विदम्। वीतरागकथा वादः विजगीषुकथा परः॥

मूलम्

वितण्डा स्थापनाहीना परपक्षैतदूषणम्। प्रतिज्ञा साधनं चैव दूषणं च विनिर्णयः॥

मूलम्

व्यवहारश्चतुष्पादः लोकवच्चैव निर्णयः। सर्वथा सदुपायानां वादमार्गः प्रवर्तते॥