मूलम्
भाट्टानां संशयोभीष्टः फलं सप्रतिसाधने॥
टीका
शास्त्र.[1-1-5]
मूलम्
गुरूणां तादृशो दोषः नेष्टः वस्तुविरोधतः। नहि वस्तु विकल्पेन न विरुद्धसमुच्चयः॥
मूलम्
एतेन वस्तुनो नानाकारता भाट्टसम्मता। सोऽन्कान्तो वाद इति गुरुभिस्त्वधरीकृतः॥
मूलम्
अतएवानित्यदोषं प्राहुर्नैयायिका अपि। रत्नकोशकृतोऽप्यत्र विदुस्संशयदेतुताम्॥
मूलम्
असाधरणदोषस्य शाक्यास्संशयदेतुताम्।वदन्ति तच्चानुमानं दूषितं च कुमारिलैः॥