मूलम्
मीमांसाकानां सिद्धान्ते त्वथाभासो निरूप्यते। दोषोऽनुमाने द्विविधः प्रतिज्ञाहेतुभेदतः॥
मूलम्
त्रिधा प्रतिज्ञादोषस्स्यात् स्ववाग्विहतिलक्षणः। वन्ध्या मे जननीत्येवं सर्वं वाक्यं मृषेत्यपि॥
मूलम्
यावज्जीवमहं मौनी धर्मिधर्मोक्तिरोघतः।असिद्धिश्चाप्यनैकान्तिकत्वं बाधकतेति च ॥
मूलम्
हेतुदोषास्त्रिधा ख्यातः पञ्चधाऽसिद्धिश्च पञ्चमी। शशशृङ्गादिहेतुत्वे स्वरूपसिद्धिरुच्यते॥
मूलम्
पक्षावृत्तेस्तु हेतुत्वे संबन्धासिद्धिरुच्यते। व्यतिरेकासिद्धिरेषा हेतुः पक्षात्मको यदि॥
मूलम्
आश्रयासिद्धिरत्र स्यान्नचेच्पक्षः प्रसिद्ध्यति। भिन्नाधारे साध्यहेत्वोः व्याप्यत्वासिद्धिसंभवः॥
मूलम्
द्विधाऽनैकान्तिकत्वं स्याद्धेतुदोषोऽप्यनन्तरः। आद्यं सव्यभिचारः स्यात् परं सप्रतिसाधनम्॥
मूलम्
बाधकत्वं विरुद्धत्वं तृतीयो दोष इष्यते॥