589 विरोधविचारः

मूलम्

स्वेनैव स्वस्य रोधश्चेत्स्वव्यघातो ननूच्यते। स्वस्य सिद्धावसिद्धौ वा विरोधः किं करिष्यति॥

मूलम्

अत्रोच्यते या हि युक्तिः परपक्षापनुत्तये। उपात्ता तत्सजातीया स्वपक्षं चेत्प्रतिक्षेपेत्॥

मूलम्

तादृश्या परपक्षस्य नच दोषः प्रसज्यते। स्वपक्ष एव दुष्टस्स्यादिति दूषकतोदिता॥

मूलम्

दुष्टस्यापुच यद्यस्ति दूषकत्वं तदा भुवि। नित्यं स्यात्कलहः मौनं शरणं वाऽथ वादिनाम्॥