मूलम्
समासमाविनाभावावेकत्र स्तो यदा तदा। समेन यदि नो व्याप्तस्तयोर्हीनोऽप्रयोजकः॥
टीका
स. सं.[2 द]
मूलम्
विपक्षे बाधकाभावादुपाधेर्वाऽपि संभवात्। हेत्वाभासोऽन्यथासिद्ध्यन् अप्रयोजक इष्यते॥
टीका
न्यायपरि.[167]
मूलम्
संदिग्धानैकान्तिकस्स्यादप्रयोजक इत्यपि। सौगतोक्तिरयुक्ता यदसिद्धेरुपजीव्यता॥
टीका
न्या. कु.[3 स्त.]