585 आर्हतमतम्

मूलम्

असिद्धिश्च विरुद्धश्चानैकान्तिक इति त्रयः। हेत्वाभासा इति प्राहुरार्हता अपि कोविदाः॥

टीका

प्र. त.[6-47]

मूलम्

यस्संदिग्धविपक्षस्स्यात् स त्वनैकान्तिको मतः। बाधादिरप्यसिद्ध्यादावन्तर्भावमिहार्हति॥

मूलम्

प्रामाणानां स्वरूपेण संख्यया विषयेण च। फलेन च चतुष्पात्त्वं आभासस्तद्विपर्ययः॥