मूलम्
अनेकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः। कालात्ययापदिष्टश्च हेत्वाभासास्तु पञ्चधा॥
टीका
सि. मु.[71 का.]
मूलम्
आद्यस्साधरणस्तु स्यादसाधारणकोऽपरः। तथैवानुपसंहारी त्रिधाऽनैकान्तिको भवेत्॥
मूलम्
यस्सपक्षे विपक्षे च भवेत्साधारणस्तु सः। यस्तूभयस्माद्व्यावृतः स चासाधारणो मतः॥
मूलम्
तथैवानुपसंहारी केवलान्वयिसाध्यकः। यस्साध्यवति नैवास्ति त विरुद्ध उदाहृतः॥
मूलम्
आश्रयासिद्धिराद्या स्यात् स्वरूपासिद्धिरप्यथ। व्याप्यत्वसिद्धिरपरा स्यादसिद्धिरतः त्रिधा॥
मूलम्
विरुद्धयोः परामर्शे हेत्वोस्सत्प्रतिपक्षता। साध्यशून्यो यत्र पक्षः त्वसौ बाध उदाहृतः॥