582 निरालम्बनानुमानम्

मूलम्

यो वादिप्रतिवादिभ्यां निश्चितस्साधनं तु तत्। इति दिङ्नागोक्तमतः नासत्यात्सत्यधीः क्वचित्॥

टीका

न्या. र.[250]

मूलम्

योऽपि रेखादयो दृष्टाः वर्णानां प्रतिपादकाः। न ते स्वेनापि रूपेण परमार्थत्ववर्जिताः॥

मूलम्

वर्णात्मना न सत्याश्चेत्सर्वभावेष्वयं विधिः। पदार्थान्तररूपेण न सत्यं किंचिदिष्यते॥

मूलम्

हेत्वादीनां तु भवतः स्वरूपेणाप्यसत्यता। तेन बाष्पादित्तेषामुपायत्वं न लेख्यवत्॥

मूलम्

नन्वसत्यपि बाह्येऽर्थे बुद्ध्यारूढेन सिद्ध्यति। वासनाशब्दभेदेत्थविकल्पप्रविभागतः॥

टीका

न्या. र.[258]

मूलम्

न्यायविद्भिरिदं चोक्तं धर्मादौ बुद्धिमाश्रिते। व्यवहारोऽनुमानादेः कल्प्यते न बहिः स्थिते॥

मूलम्

अस्तीदं वचनं तेषामिदं तत्र परीक्ष्यताम्। भेदोऽसतः कथं हि स्यात् बुद्धिशब्दप्रकल्पनात्॥

मूलम्

निर्वस्तुके कथंचस्यात्प्रसवो बुद्धिशब्दयोः। शब्दभेदोऽपि भवतः तदभावान्न सिद्ध्यति॥

मूलम्

ननु यद्वन्मया हेतुः नेष्यते दूषणं तथा। तेन मे दूषणाभवात् अदुष्टं किं न साधनम्॥

टीका

श्लोक.[260]

मूलम्

नेदानीं दूषणं कार्यं साधनाभावतो यदि। त्वयैवास्मदभिप्रेता स्वपक्षासिद्धिराश्रिता॥

मूलम्

एवमादिवचोभेदैः निरालम्बनसाधनम्। दूषितं विस्तरेणेदं वीक्ष्यतां श्लोकवार्तिके॥

मूलम्

असत्यात्सत्यधीयुक्तिं समालम्ब्य हि शाङ्करे। शारीरके जगन्मिथ्यावाद एष समर्थितः॥

टीका

ब्र. सू. शं.[2-1-15]

मूलम्

नन्वेकत्वैकान्तवादे नानात्वं न प्रसिद्ध्यति। प्रत्यक्षादिप्रमाणानि व्याहतानि भवन्ति हि॥

मूलम्

तथा विधिप्रतीषेधशास्त्राण्यप्यफलानि च। मोक्षशास्त्रं तथा शिष्यशासित्रादि विहन्यते॥

मूलम्

कथंवा सत्यमेकत्वमनृतादवगम्यते। अत्रोच्यते प्राक्प्रबोधात् सर्वं सत्स्वप्नवत्ततः॥

मूलम्

सर्वोपपत्तिरेकत्वं त्वसत्यादपि गम्यते। यथा शङ्काविषाद्धेतोर्मरणाद्युपजायते॥

मूलम्

रज्जुसर्पान्मृगलाद्दंशनस्नानधीरपि। सत्याप्रबोधनिर्बाधा फलमप्युपभ्यते॥

मूलम्

शुभाशुभस्वप्नदृग्भ्यां सूच्येते साध्वसाधुनी। तथा सत्याक्षरज्ञानमस्ति रेखानृताक्षरात्॥

मूलम्

देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः। लौकिकं तद्वदेवदं प्रमाणं त्वात्मनिश्चयात्॥

मूलम्

इत्यादिः विस्तरो ज्ञेयः, तत्र श्रीभाष्यकृत्पुनः। असत्ये विषयेऽप्यत्र प्राह ज्ञानस्य सत्यताम्॥

मूलम्

तेन ज्ञानेन सत्येन मता सर्वत्र सत्यधीः। सत्यादसत्यधीर्वा स्यान्नासत्यासत्यधीः क्वचित्॥

मूलम्

सर्वस्यास्य विवादस्य निदानं वचनं पुनः। अनिर्वाच्यविचारे प्राक् धर्मकीर्तेरुदाहृतम्॥

टीका

मानमेय.[305]